270 गन्धः

मूलम्

घ्राणग्रह्यो गुणोगन्धः स च द्विविध इष्यते। सुगन्धश्चाथ दुर्गन्धः इत्यत्र तु विचार्यते॥

मूलम्

तत्तदन्यविभेदेन विभागो न हि दुश्शकः। सूक्ष्मभेदाविवक्षा चेत् रूपादौ सा प्रसज्यते॥

मूलम्

सौगतादिप्रबन्धेषु विभागोऽस्ति विलक्षणः। विचाररसिकानां चु केवलं दिक्प्रदर्शनम्॥