मूलम्
रसस्तु रसनाग्रह्यः स च षड्विध इष्यते। मधुरादिविभेदेन स्थूलदृष्ट्या बुधैरिह॥
मूलम्
रसानां सूक्ष्मभेदस्तु सर्वज्ञस्यापि दुर्ग्रहः। इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत्॥
टीका
काव्यादर्शः.[ ]
मूलम्
तथापि न तदाख्यातुं सरस्वत्याऽपि शक्यते। इति दण्ड्यादयः प्राहुः विद्वद्रसिकशेखराः॥
मूलम्
तदाश्रयविकल्पोऽपि विविधः परिदृश्यते। चिन्तनानलसाश्चापि सन्ति दुश्शकनिर्णयाः॥