मूलम्
चक्षुर्ग्रह्यः गुणो रूपं तत्सप्तविधमुच्यते। तार्किकैरिति सिद्धान्तः सर्वेषामेव विश्रुतः॥
मूलम्
चित्रं रूपं नोपयन्ति मीमांसकविपश्चितः। अवयव्यतिरेके तु चित्रं रूपं मतं भवेत्॥
मूलम्
भेदाभेदेऽप्यभेदे वा नोपगन्तव्यमेव तत्। अंशैरेवान्यथासिद्धेः नव्यैरप्येवमिष्यते॥
मूलम्
मन्त्रशास्त्रे तु वस्थूनां रूपादिस्सायाद्विलक्षणः। विलक्षणो वैद्यशास्त्रे वेदान्तेऽपि विलक्षणः॥
मूलम्
प्रत्यक्षेणापि बहुधा वैलक्षण्यं समीक्ष्यते। निर्वाहस्तूपदेशस्स्यादिति केचित्प्रचक्षते॥
मूलम्
चित्रं यद्यतिरिक्तं स्यात् स्पर्शो गन्धः तथा रसः। एवमाद्याः किंनु चित्रा न भवेयुरितीतरे॥
मूलम्
दुरालभादिवस्तूनां स्पर्शास्सन्ति विलक्षणाः। कस्तूरीप्रभृतीनां तु गन्धास्सन्ति विलक्षणाः॥
मूलम्
एवं रसादिभेदाश्च सर्वानुभवसाक्षिकाः। व्यवहाराय सामान्यत्तीर्थकृद्भिर्विभज्यते॥
मूलम्
अतिरिक्तं रूपमाहुः स्निग्धत्वं वर्णलक्षणम्।तथैव पिच्छिलत्वं च,स्य़ाद्गुणान्तरमन्यथा॥
टीका
स. सि.[5-33]
मूलम्
नैल्यादयो गुणा विभ्व्यः एकैकव्यक्तिलक्षणाः। तेषामाश्रयभेदेन भेदधीरिति शाबराः॥
टीका
श्लोक.[835]