267 उद्देशः

मूलम्

गुणाः प्रधानं सांख्यानां त्रयस्सत्त्वादिलक्षणाः। अप्रधानं याज्ञिकानां मतं द्रव्यादिलक्षणम्॥

मूलम्

शक्त्यादयो गुणाः प्रोक्ता ह्यर्थशास्त्रविशारदैः। शोभादयो गुणास्त्विष्टाः काव्यालङ्कारवेदिभिः॥

मूलम्

शुक्लादयो गुणाः केचित्तार्किकैः परिभाषिताः। दोषप्रतिद्वन्द्वितया गुणास्स्युस्सर्वसम्मताः॥

मूलम्

रज्ज्वादिकं तु संघातं वस्त्वस्ति गुणशाब्दितम्। तस्मात्सामान्यतो दृष्टौ वस्तुमात्रं गुणो मतः॥

मूलम्

तथैव सर्वश्शब्दो दि वस्तुमात्रे प्रयुज्यते। तथापि पारिभाषिक्या वृत्त्या शास्त्रे व्यवस्थितिः॥

मूलम्

गुणे द्रव्यव्यपेक्षेऽपि द्रव्येऽपि गुणकाङ्क्षिणि। अन्योन्यनिरपेक्षे च गुणद्रव्ये प्रसिद्ध्यतः॥

मूलम्

सर्वेषां वासना प्रायस्तर्कशास्त्रानुसारिणी। यतः पदार्थसंशुद्ध्यै शास्त्रमेतत्प्रवर्तितम्॥

मूलम्

अतस्तदनुरोधेन गुणोद्देशोऽत्र गृह्यते। रूपं रसस्ततो गन्धस्स्पर्शस्संख्या ततः परम्॥

मूलम्

परिमाणं पृथक्त्वं च संयोगस्तदनन्तरः। विभागश्च परत्वं चापरत्वं बुद्धिरेवच॥

मूलम्

ततस्सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम्। द्रवत्वस्नेहसंस्काराः शब्दोऽदृष्टं गुणा इमे॥

मूलम्

न गुणनां पृथक्सत्ता व्यवहारो द्रव्यसत्तया। इति केचित्तार्किकाश्च प्राहुरित्यपि दृश्यते॥

टीका

मुण्डकभा. रं[1 मु]

मूलम्

स्वरूपमेव संबन्धः स स्वभावनिबन्धनः। इत्याहुर्गुणगुण्याद्योस्समवायं द्विषन्ति ये॥

मूलम्

विशेषसामान्यभेदात् गुणान् द्वेधा विदुर्बुधाः। सामान्यद्रव्यवृत्तित्वे सामान्यगुणतेष्यते॥

मूलम्

विशेषद्रव्यवृत्तित्वे तत्त्वं प्राहुः कुमारिलाः। रूपं गन्धो रसः स्पर्शः स्नेहस्सांसिद्धिको द्रवः॥

टीका

मानमेयोदयः.[ ]

मूलम्

बुद्ध्यादिभावनान्ताश्च शब्दो वैशेषिका गुणाः। संख्यादिरपरत्वान्तः द्रवोऽसांसिद्धिकस्तथा॥

मूलम्

गुरुत्ववेगौ सामान्यगुणा इति हि तार्किकाः। अथ रूपादिवस्तूनां विकल्पोऽप्यवधार्यताम्॥