266 वासनाशक्तिः

मूलम्

वासनानां तु वैचित्र्यं वस्तुवैचित्र्यमूलकम् । वैचित्र्यं चापि वस्तूनां स्वभावादिति तद्विदः ॥

मूलम्

एवंविधाऽपि काचित्स्याद्वासनेति च सौगताः । साऽपि बाह्यार्थनिघ्नेति विदुर्बाह्यार्थवादिनः ॥

मूलम्

एवंविधविचारे तु प्रतिष्ठा कुत्र शाश्वती । इति संचिन्त्य मध्यस्थाः सम्प्रदायमुपाश्रयन् ॥

मूलम्

सर्वेऽपि हि स्वोपलम्भं वदन्त्यखिलसाक्षिकम् । तथा च लोकानुभवोऽप्येवमेवेति सम्भ्रमात् ॥

मूलम्

तेन वादी स्वोपलम्भं भ्रमबुद्ध्या त्यजेदपि । त्रासितोऽपि बुधैरेवं न बिभेति विशुद्धधीः ॥

मूलम्

भवन्ति बहवः क्लीबाः अचलो यस्स बुद्धिमान् । इत्यतो वादभेदोऽपि सत्त्वाशयवशानुगः ॥