मूलम्
एवं गुणपदं कर्मपदाद्यमपि दृश्यते । वस्तुमात्रे संप्रयुक्तं कथं तत्त्वव्यवस्थितिः ॥
मूलम्
तस्माद्वस्तुव्यवस्थायां व्यवहारा न चेशते । प्रयोगाल्पत्वभूयस्त्वनिर्णयः प्राज्ञदुश्शकः ॥
मूलम्
तस्माद्विरुद्धसंस्कारशिक्षितानां मनीषिणाम् । अन्योन्यं प्रत्यवस्थाने व्यवहारान्न निर्णयः ॥
मूलम्
अतएव हि शब्दानां सर्वेषां सर्वशक्तताम् । सार्वात्म्यवादिनः प्राहुः व्यवस्थां सहकारिभिः ॥
टीका
श्लोक.[202]
मूलम्
सहकारिविकल्पस्तु वासनामनुवर्तते । अतश्च वासना सर्वमिति सौगतनिर्णयः ॥