मूलम्
ख्यातिवादे पुनस्तत्त्वमेतस्य स्फुटमग्रतः । द्रव्यं नित्यं ब्रह्म तत्त्वं परमार्थं च सन्मतम् ॥
मूलम्
इति ब्रह्मविदः प्राहुः अत्र च श्लोकवार्तिकम् । महासामान्यमन्यैस्तु द्रव्यं सदिति भाषितम् ॥
टीका
श्लोक.[169]
मूलम्
शब्दाद्वैतविदः शब्दं द्रव्यमित्यभिमन्वते । कालाद्वैतविदः कालं द्रव्यमेकमुदैरयन् ॥
मूलम्
स्याद्वादिनां तु सिद्धान्ते त्वेतत्स्याद्द्रव्यलक्षणम् । अनागतपरीणामावस्थं द्रव्यमितीर्यते ॥
टीका
तत्त्वार्थराज.[ ]
मूलम्
तद्वर्तमानपर्यायं भाव इत्यभिधीयते । द्रूयन्ते यानि पर्यायैः पर्यायैर्वा द्रवन्त्यपि ॥
मूलम्
द्रव्याणि तानि निदिर्ष्टान्यद्रव्याणि द्विधा पुनः । आगन्तवः स्युः पर्यायाः सहजास्स्युर्गणा इति ॥
मूलम्
सांख्यानां सकलं द्रव्यं अनेकान्तविदामपि । वैशेषिकादिसिद्धान्ते द्रव्यं धर्मितया स्थितम् ॥
मूलम्
गुणकर्मागिधर्माणामिति पूर्वं निरूपितम् । मूर्तं द्रव्यं विदुः केचिच् परिणामीति केचन ॥
मूलम्
द्रव्यं शक्तिमादित्येके ह्यद्रव्यं नहि शक्तिमत् । यथा शक्तिरशक्तैवं अद्रव्यं स्वान्यसाधकम् ॥
मूलम्
अवस्थाधारता द्रव्यमिति स्वायंभुवादयः । आगन्तुकापृथक्सिद्धधर्मोऽवस्थेति कीर्त्यते ॥
टीका
पा. भा.[3-43]
मूलम्
स्फुरद्द्रव्यमिळद्धर्मोऽवस्थेत्येके विदुर्बुधाः । अवस्थातद्वतोर्भेदाभेदं तु बहवो विदुः ॥
मूलम्
द्रव्यं नित्यमवस्थास्स्युरनित्या इति भाषितम् । पातञ्जले महाभाष्ये सुवर्णमकुटादिवत् ॥
टीका
पा. भा.[3-43]