मूलम्
द्रव्यादिव्यवहारेषु विकल्पोऽथ प्रदर्श्यते । न द्रव्यं नाम वस्त्वस्ति वस्तुत्वेऽपि गुणादितः ॥
मूलम्
नातिरिक्तं पृथक्त्वेऽपि न प्रत्यक्षं तदिष्यते । प्रत्यक्षेऽपि विकल्पोऽयमिति वादः प्रवर्तते ॥
मूलम्
उपलम्भे विश्रमोऽतः तत्रापि शपथोक्तयः । एवं प्राकारस्सर्वत्र विचारः सौगतादृतः ॥
मूलम्
गुणे कर्मणि सामान्ये विशेषादौ प्रवर्तते । विवर्तवासना काचिन्महती तैस्समाश्रिता ॥
मूलम्
तामेवाश्रित्य कतिचित् स्वंस्वं सिद्धान्तमभ्यधुः । तद्विवर्तपदार्थेऽपि विकल्पो विविधोऽस्ति हि ॥
मूलम्
तुच्छं विवर्तमपरेऽथानिर्वाच्यं विदुः परे । अन्यथात्वं विदुः केचित् साधारण्यं विदुः परे ॥