262 भेदाभेदसिद्धान्तः

मूलम्

अथ भेदाभेदवादसारांशोऽत्रावधार्यताम् । अर्हत्पातञ्जलकुमारिलप्रभृतिसम्मतः ॥

मूलम्

यदि ह्येकान्ततो भिन्नं विशेष्यात्स्याद्विशेषणम् । स्वानुरूपां सदा बुद्धिः विशेष्ये जनयेत्कथम् ॥

टीका

श्लोक.[178]

मूलम्

स्फटिकादौ तु लाक्षादिस्वरूपा या मतिर्भवेत् । अव्युत्पन्नस्य सा मिथ्या व्युप्पन्नानां हि भेदधीः ॥

मूलम्

न तु जात्यादिनिर्मुक्तं वस्तु दृष्टं कदाचन । तद्विवेकेन वा तानि लाक्षादिस्फटिकादिवत् ॥

मूलम्

तत्रापि चेन्न दृश्येत भेदः कैश्चित्कदाचन । रक्तादिबुद्धिसम्यक्त्वं विनिवार्येत केन वा ॥

मूलम्

नानिष्पन्नस्य संबन्धो निष्पत्तौ युतसिद्धता । तथा च सति संबन्धे हेतुः कश्चिन्न विद्यते ॥

मूलम्

समवायवियोगाच्च विश्लेषस्स्यात्परस्परम् । तत्क्लृप्तावव्यवस्था स्यात्तस्यतस्यान्यसंगते ॥

मूलम्

अथ तस्मात्मरूपत्वान्नान्यसंबन्धकल्पना । अभेदात्समवायोऽस्तु स्वरूपं धर्मधर्मिणोः ॥

मूलम्

अतो जात्यादिरूपेण धर्मी यद्गृह्यते नरैः । पाररूप्यं न तस्यास्तीत्यप्रामाण्यं न युज्यते ॥

मूलम्

यो ह्यन्यरूपसंवेद्यः संवेद्येतान्यथापुनः । स मिथ्या न तु तेनैव यो नित्यमवभासते ॥

मूलम्

अत्यन्तभिन्नताऽस्माभिः नैव कस्यचिदिष्यते । सर्वं हि वस्तुरूपेण भिद्यते न परस्परम् ॥

टीका

श्लोक.[297]

मूलम्

सर्ववस्तुषु बुद्धिश्च व्यावृत्त्यनुगमात्मिका । तेन नात्यन्तभेदोऽपि स्यात्सामान्यविशेषयोः ॥

मूलम्

तस्मात्सास्नादिमत्स्वेव गोत्वं यस्मात्तदात्मकम् । तादात्म्यमस्य कस्माच्चेत्स्वभावादिति गम्यताम् ॥

टीका

श्लोक.[588]

मूलम्

स्वरूपसत्त्वमात्रेण नच किंचिद्विशेषणम् । स्वबुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम् ॥

मूलम्

अस्ति ह्यालोचने ज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥

मूलम्

व्यावृत्तिरनुवृत्तिर्वा तदानीं नानुभूयते । तयोराधारभूता तु व्यक्तिरेवावसीयते ॥

मूलम्

महासामान्यमन्यैस्तु द्रव्यं सदिति चोच्यते । सामान्यविषयत्वं च प्रत्यक्षस्यैवमाश्रितम् ॥

मूलम्

विशेषास्तु प्रतीयन्ते सविकल्पकबुद्धिभिः । ते च केचित्प्रतिद्रव्यं केचिद्बहुषु संश्रिताः ॥

मूलम्

पूर्वोक्तादेव तु न्यायात्सिद्ध्येदत्रावयव्यपि । तस्याप्यत्यन्तभिन्नत्वं न स्यादवयवैस्सह ॥

टीका

श्लोक.[632]

मूलम्

व्यक्तिभ्यो जातिवच्चैष न निष्कृष्टः प्रतीयते । कैश्चिदव्यतिरिक्तत्वं कैश्चिच्च व्यतिरिक्तता ॥

मूलम्

दूषिता साधिता वापि नच तत्र बलाबलम् । कदाचिन्निश्चितं कैश्चित् तस्मान्मध्यस्थता वरम् ॥

मूलम्

ततोऽन्यानन्यते तस्य स्तो न स्तश्चेति कीर्त्यते । तस्मात्स्याच्चित्रवत्सर्वं मृषैव त्वेकरूपता ॥

मूलम्

तदभिन्नादभिन्नस्य तदभेदो न हीष्यते । रसरूपादिभेदस्य विनिपातः प्रसज्यते ॥

मूलम्

वस्त्वनेकान्तवादाच्च न संदिग्धाप्रमाणता । ज्ञानं संदिह्यते यत्र तत्र न स्यात्प्रमाणता ॥

मूलम्

इहानैकान्तिकं वस्त्वित्येवं ज्ञानं सुनिश्चितम् । संदिग्धैकान्तवादो हि स्यात्क्लैब्यैकनिबन्धनः ॥

मूलम्

इदं कौमारिलमतमुक्तं तादात्म्यलक्षणम् । पातञ्जलार्हदादीनां सिद्धान्तोऽप्ययमेव हि ॥

टीका

तत्त्ववै.[3-13]

मूलम्

अत्रैव च क्वचित्कंचिद्विशेषं परिगृह्य ये । प्रवृत्ता मतभेदास्ते सन्ति वेदान्तिनामपि ॥

मूलम्

सत्यासत्यविभागेन विरोधं केचिदूचिरे । प्रतीत्यैव विरोधस्य पराहतिरितीतरे ॥

मूलम्

परे विप्रतिपद्यन्ते प्रतीतावेव तादृशी । तत्त्वं देवो विजानाति चित्रा मानुषशेमुषी ॥