261 निगमनम्

मूलम्

तस्माद्धर्मश्च धर्मी च निरपेक्षौ परस्परम् । विवादानवकाशस्स्यादभावे धर्मधर्मिणोः ॥

मूलम्

क्व वा विधीयते किं वा साध्यं किं किं च साधनम् । कः पक्षः कश्च दृष्टान्तः सर्वं खल्विह दुर्घटम् ॥

मूलम्

इदमित्थंत्वयोः किंचिद्यदि केनापि भज्यते । इदं नास्तीति वाचोऽपि भङ्गोऽन्यतरभङ्गतः ॥

मूलम्

विसंवादादिसाध्येषु विकल्पत्वादिहेतवः । व्याकुलाः पक्षहेत्वादिबाधाबाधविकल्पतः ॥

टीका

न्या. सि.[1 परि.]

मूलम्

व्यवहारो हि जगतो भवत्यालम्बने क्वचित् । न तत्सामान्यतो नास्ति कथन्ता तु परीक्ष्यते ॥

मूलम्

सामान्यनिश्चितार्थेन विशेषे तु बुभुत्सिते । परीक्षा वर्तते स्वेष्टप्रमाणोत्पादनात्मिका ॥

मूलम्

संबन्धेऽनुपपत्तिर्या वृत्तित्वे याऽपि तादृशी । स्वीयकार्यविरोधेन सा नात्रोत्प्रेक्षितुं क्षमा ॥

मूलम्

वासनावशतस्सर्वनिर्वाहे शून्यता वरम् । इष्टप्रसक्तिरितिचेदनिष्टं तेऽस्ति वा न वा ॥

मूलम्

नास्ति चेन्नैव दूष्योऽन्योऽप्यस्ति चेत्तत्प्रसज्यते । इष्टानिष्टाविभागस्तु तिरश्चामपि दुर्वचः ॥

मूलम्

भेदमात्रापह्नवस्तु स्वक्रियायां विरुध्यते । न विरोधस्य संत्यागी लौकिको नाप्यलौकिकः ॥