मूलम्
भेदोभेदे हेतवो ये कीर्तिताः धर्मधर्मिणोः । अभेदधीः प्राक्, परतश्चैकशब्दानुविद्धधीः ॥
मूलम्
सामानाधिकरण्यं च मत्वर्थीयविनाकृतम् । सहोपलम्भनियमः इत्याद्याः, तत्र चोच्यते ॥
मूलम्
नाभेदधीः प्राग्वैशिष्ट्यात् धर्म्यैक्यादेकतामतिः । मत्वर्थीयः पृथक्सिद्धे सहभावोऽपि भेदकः ॥
मूलम्
तदिहाभिन्नधीर्भिन्ने भ्रान्तिः ज्वालैक्यबुद्धिवत् । अभिन्ने भेदधीश्चैवं स्याच्चन्द्रद्वित्वबुद्धिवत् ॥
मूलम्
धर्मधर्मिस्वरूपैक्ये स्यान्नान्यतरधीः क्वचित् । सहधीश्च क्वचिन्न स्यात् सम्मतैक्ये यथा घटे ॥
मूलम्
सहस्रशस्सुप्रयोगास्सन्त्येव ह्यौपचारिकाः । तत्त्वं विनिश्चाययितुं अज्ञानां तैर्न शक्यते ॥
मूलम्
भेदाग्रहाद्विकारित्वात् धर्मत्वाद्देशसाम्यतः । परिमाणैक्यतश्चेत्याद्यसारं सांख्यकल्पितम् ॥
मूलम्
बाधासिद्ध्यन्थासिद्धिव्यभिचारादिविप्लुताः । हेतवस्तद्विदामेव जुगुप्सामात्रहेतवः ॥
मूलम्
यत्तु भेदे स्वरूपादिविकल्पः तत्र कथ्यते । यद्बुद्धौ यत्र यद्भ्रान्तिः न स्यात्, सा तत्र तद्भिदा ॥
मूलम्
अभेदेऽपि स्वरूपादिविकल्पानुपपत्तयः । भेदे यथा तथैव स्युः समाधिश्चोभयोस्समः ॥