259 शङ्कासमाधिः

मूलम्

ननु निर्धर्मको धर्मः उत वा स्यात्सधर्मकः। आद्येऽभिलपनं न स्यात् अन्त्ये स्यादनवस्थितिः॥

मूलम्

केचिद्धर्माः धर्मिणः स्युः स्वान्यनिर्वाहताः परे। गोत्वादिनिष्कर्षशब्दे धर्मी धर्मविशेषकः॥

मूलम्

सत्त्वं प्रामाणिकत्वाख्यं प्रमेयत्वं च वाच्यता। पदार्थत्वादिकं सर्वैः स्वस्ववृत्तीति सम्मतम्॥

मूलम्

घटकुड्यवदन्यत्वेऽनन्यत्वे तु स्वरूपवत्। न गुणस्य गुणत्वं स्यादित्यसत्स्वोक्तिबाधतः॥

मूलम्

दष्यादन्यदनन्यद्वा दूषणं नतु दूषणम्। गर्दभादिवदन्यत्वे,ऽनन्यत्वे दूषणीयवत्॥

मूलम्

सामान्यं वा विशेषं वा वादी नाङ्गीकरोति चेत्। भ्रान्तिबाधौ हि न स्यातां कुत्र किं केन साध्यते॥

मूलम्

द्रव्यं सत्त्वमथाद्रव्यमसत्त्वामिति शाब्दिकम्। असत्त्वेन मृषात्त्वं स्यादद्रव्यस्येति चेन्न तत्॥

मूलम्

असत्त्वं सत्त्वभिन्न्त्वं द्योतकत्वादि तन्मतम्। नतु तुच्छं यतश्चार्थक्रियाकारित्वमिष्यते॥