मूलम्
वैशेषिकादयः केचिद्भेदमेकान्ततो विदुः॥
मूलम्
प्रतीति व्यवहारं च प्रमाणं तेऽपि मन्वते। दर्शनस्पर्शनाभ्यां चाप्येकार्थग्रह्णादिति॥
मूलम्
अबाधिता प्रत्यभिज्ञा धर्म्यभावे हि दुर्घटा। धर्माभावः पट्वपटुप्रत्ययानुपपत्तितः॥
टीका
स. सि.[1-8]
मूलम्
पीतशङ्खभ्रमादेश्चाप्ययोगान्न हि संभवी। स एवच तदैवान्यैः शुक्लत्वेनोपलभ्यते॥
मूलम्
अधिष्ठानस्य कार्त्स्न्येन भानेऽभाने च न भ्रमः। भाताभाताकृतिभिधा कथं निर्धर्मके भवेत्॥
मूलम्
आविर्भावकिरोभावधर्मकेष्वनुयायि यत्। तद्धर्म् यत्र वा ज्ञानं प्राग्धर्मग्रह्णाद्भवेत्॥
मूलम्
ग्रह्मभेदे ग्राहकाणां भेदस्स्यादन्यथापुनः। अन्योन्यसंश्रयापत्त्या विजयी मध्यमागमः॥
मूलम्
वेद्यहेतुफलाकारैः भिन्नैरेका समेति धीः। तथा बाह्योऽपि दृष्टत्वात् युगपत्क्रमशोऽपिवा॥
मूलम्
प्रतिसंबन्ध्यनेकत्वं यथा नैकस्य बाधकम्। तथा संबन्ध्यनेकत्वं नाश्रयैकत्वबाधकम्॥
मूलम्
अनादाविह संसारे पूर्वपूर्वोपदेशतः । शिक्ष्यमाणाः पुनर्बालाः व्युप्पद्यन्ते तथातथा ॥
मूलम्
सर्वेऽपि भेदो युगपत्सहसैवोपलभ्यते । सेनावनसभातारामण्डलादिविभागवत् ॥
मूलम्
आगन्तुकोऽथवाऽवस्था धर्मो मिथ्येति न क्षमः। जननादेश्च मिथ्यात्वे नित्यत्वं वाऽथ तुच्छता॥
मूलम्
नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्। अपेक्षातो हि भावानां कादाचित्कच्वसंभवः॥
टीका
न्या. ता.[107]
मूलम्
अस्तिहीति प्रतिज्ञाने नास्तिहीत्युत्तरं क्षमम्। प्रवृत्तिभिर्विशिष्टार्था बालमूकादिधीरपि॥