257 ऐक्यसिद्धान्तः

मूलम्

सौत्रान्तिकानां सिद्धान्तः प्रायेणायामिति स्थितः। द्रव्याद्रव्यैक्यसिद्धान्तस्त्वथ कापिलसम्मतः॥

मूलम्

वस्तुजातं प्रतीत्यैव व्यवस्थाप्यं हि सर्वशः। धर्मी धर्मः प्रतीयते नातोऽन्यतरनिह्नवः॥

मूलम्

कार्यकारणयोर्द्रव्यगुणयोः कर्मकर्मिणोः। जातिव्यक्त्योरभेदोऽयं सम्मतोऽयुतसिद्धयोः॥

मूलम्

धर्मत्वादथ कार्यत्वात् संयोगात्प्राप्त्यसंभवात्। संवित्त्युत्पत्तिसत्तानां भेदेनानवभासनात्॥

मूलम्

धर्मोऽसौ धर्म्यभिन्नस्स्यादिति सांख्यव्यवस्थितिः। कथंचिदाश्रितत्वादिः स्यात्तु भेदविवक्षया॥

टीका

त. कौ.[9 का.]

मूलम्

यथेह कानेन सन्ति तिलका इति गीस्तथा।