256 धर्म्येकान्तः

मूलम्

अथ केचन सन्मात्रं विदुः तत्तु स्वलक्षणम्। तदेतत्सर्वसामान्यसहमित्यपि तैः स्मृतम्॥

टीका

न्या.म.[94]

मूलम्

द्रव्यं गुणः कर्म जातिः नाम चेत्यपि पञ्चधा। विकल्प्यते वासनया वस्तुभावेन तद्यथा॥

मूलम्

गोविन्दो वेणुमान् श्यामः गोपोऽयं गायतीत्यपि। प्रतीतिर्व्यवहारश्च वर्तते न तु वस्तुतः॥

मूलम्

एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतस्स्वयम्। कोऽन्यो न दृष्टो भागस्स्यात् यः प्रमाणैः परीक्ष्यते॥

टीका

न्या. र.[590]

मूलम्

स्वलक्षणः स प्रत्यक्षः निर्विकल्पकगोचरः। इत्याहुस्ते हि सन्मात्रवादिनः धर्मिवादिनः॥

मूलम्

सामान्यवादिनश्चापि तथैवापोहवादिनः। बाह्याद्वैतिने इत्येवं कथ्यन्ते बहुरूपतः॥

मूलम्

भेदे धर्मिस्वरूपे तु भ्रमः क्वापि न संभवेत्। धर्मरूपेऽनवस्था स्यात् अन्योन्याश्रयताऽपिवा॥

मूलम्

भेदकाग्रहणे भेदो न गृह्येत कथंचन। तस्य चाग्रहणे सोऽपि न ग्रह्येतेति संग्रहः॥

टीका

त. टी.[32]

मूलम्

अभावस्य यथा देशकालाद्यैः सिद्धिरन्यथा। तथा रूपादिवस्तूनां किं न स्यात्सिद्धिरन्यथा॥

मूलम्

साधारणोऽथान्यथा वा संबन्धो धर्मधर्मणोः। आद्ये सकलसांकर्यं अन्त्ये भेदो न सिद्ध्यति॥

मूलम्

आधाराधेयभावोऽपि न भेदे व्यवतिष्ठते। स्वभावान्नियमश्चेत्स्यात् स्वभावादेव चैकता॥