मूलम्
स्पर्शादीन् दगतो धातून् पञ्च वैभाषिका विदुः। शब्दात्मनश्चतुर्ष्वेव केचिदित्यपरेऽब्रुवन्॥
टीका
स. सि.[1-8]
मूलम्
स्पर्शाद्यकद्वित्रिचतुस्स्वभावानपरे विदुः। निर्धर्मका निराधाराः न चेत्स्यादनवस्थितिः॥
मूलम्
धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि। नोपकारस्ततस्तासां तथा स्यादनवस्थितिः॥
मूलम्
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे। सर्वात्मनोपकार्यस्य को भेदस्स्यादनिश्चितः॥
टीका
न्या. ता.[89]
मूलम्
एकोपकारके ग्रह्यो नोपकारास्ततोऽपरे। दृष्टे तस्मिन्नदृष्टेऽपि तद्ग्रहे सकलग्रहः॥
मूलम्
त्वगाद्येकैकेन्द्रियस्य ग्रह्या इत्यपि तत्स्थितिः। तेषां पुञ्जः प्रपञ्चोऽयं संबन्धस्यानवस्थितेः॥
मूलम्
क्षीणानि चश्रुरादीनि रूपादिष्वेव पञ्चसु। न षष्ठमिन्द्रियं द्रव्यग्राहकं विद्यते बहिः॥
मूलम्
तत्र धर्मातिरेकेण धर्मिणोऽनुपलम्भनात्। संघातमात्र एवायं गवादिस्स्याद्वनादिवत्॥
मूलम्
सिद्धे ज्ञानसुखादीनां गुणत्वे गुणिकल्पना। न तु तत्सिद्धमस्माकं तावन्मात्रोपपत्तितः॥
मूलम्
एत एव विशेषैकवादिनोऽद्रव्यवादिनः। प्रायो वैभाषिका एते यथाच वनवादिनः॥