254 अवतरणम्

मूलम्

अथ मीमांस्यते धर्मधर्मिभावे विदां मतम्। सर्वेषां च विवादानां प्रायशोऽत्रैव विश्रमः॥

मूलम्

सदसत्कार्यवादो वा नित्यानित्यविकल्पना। क्षणस्थिरविवादश्च सृष्टिप्रळयकल्पना॥

मूलम्

द्वैताद्वैतविवादश्च मोक्षवादोऽपि तादृशः। तदुपायविवादो वा नादेऽस्मिन् पर्यवस्यति॥

मूलम्

अद्रव्यवादिनः केचित्केचिद्द्रव्यैकवादिनः। तदैक्यवादिनः केचित् केचित्तद्भेदवादिनः॥

मूलम्

भेदाभेदं वदन्त्यन्ये केचित्सन्मात्रवादिनः। असन्मात्रविदः केचित् तेषां भावोऽवमृश्यताम्॥