253 कर्म

मूलम्

सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः। पूरयन्ति गलन्तीति पुद्गला इति निर्णयः॥

मूलम्

धर्मः प्रवृत्तिहेतुः स्यादधर्मः स्थितिकारणम्। अधर्मे गलिते धर्मः स्यादूर्ध्वगतिसाधनम्॥

मूलम्

आत्मनश्चलनं योगः तेन कर्म पुमानयम्। आदत्ते सलिलं विष्वक् तप्तायःपिण्डवत् सदा॥

मूलम्

तदेव पौरुषं ज्योतिः इन्द्रियेभ्यस्स्त्रवत्सदा। स्पृशच्च विषयान् तद्धीरूपेण परिणाम्यदः॥

मूलम्

स चास्रवः, तस्य धीरैः कर्तव्यस्संवरस्सदा। आस्रवस्स्रोतसो द्वारं संवृणोतीति संवरः॥