252 जीवभावाः

मूलम्

औदयश्चौपशमिकः क्षायिकः पारिणामिकः। एते जीवस्य चत्वारः भावाः पर्यायलक्षणाः॥

मूलम्

स स्यादौदयिको भावः यः कर्मोदयलक्षणः। स चौपशमिको भावः यः कर्मोपशमात्मकः॥

मूलम्

स एव क्षायिको भावः यस्स्य़ात् मोक्षपदाभिधः। स पारिणामिको भावः सहजः चित्स्वभावता॥

मूलम्

समनस्कोऽमनस्कश्च स जीवो द्विविधो मतः। संज्ञिनस्समनस्काः स्युः अमनस्काः त्रसाः स्थिराः॥

मूलम्

गुणपर्यायवद्द्रव्यं तत्रस्थाः निर्गुणाः गुणाः। चैतन्यसुखदुःखाद्याः पर्यायगुणलक्षणाः॥