251 स्वरूपोपदेशः

मूलम्

आर्हतानामात्मतत्त्वं प्रागेव सुनिरूपितम्। तदेवचात्माऽध्यायेऽस्मिन् अन्यूनत्वाय चिन्त्यते॥

टीका

प्र. त.[145]

मूलम्

देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः। स्वयंप्रकाशप्रत्यक्षसिद्धं आत्मेति निर्णयः॥

मूलम्

आत्मा चैतन्यरूपस्स्यात्परिणामी करोति च। साक्षाद्भोक्ता स्वीयदेहसमानपरिमाणवान्॥

मूलम्

प्रतिक्षेत्रं विभिन्नश्च विचित्रश्चाप्यनन्तकः। स च पौद्गलितादृष्टसंयुतः पुरुषार्थभाक्॥

मूलम्

आत्मतत्त्वं तु सहजचिद्रुपपरिणामवत्। आवृत्तिप्रक्षयादेषः सार्वज्ञ्यैकरसः स्वयम्॥

मूलम्

ज्ञानाद्भिन्नो नचाभिन्नः भिन्नाभिन्नः कथंचन। ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितः॥

मूलम्

उपादेयं परं ज्योतिरुपयोगैकलक्षणः। उपयोगः कर्मणैकीभूतस्यास्य विवेचनम्॥