250 सिद्धान्तः

मूलम्

एवंच नित्यशास्त्रोत्थसंप्रदायानुसारतः। भेदधीः प्रबला नान्येत्याहुस्शास्त्रैकलोचनाः॥

मूलम्

यथा चन्द्रे यथा सूर्ये परिमाणाल्पविभ्रमः। दिङ्मोहादिभ्रमश्चैव तलमालिन्यविभ्रमः॥

मूलम्

एवंलक्षणकस्सर्वस्शास्त्रेणैव निवार्यते। तथा शास्त्रानुग्रहेण बलाबलविनिर्णयः॥

मूलम्

ततः स्वतो वा युक्त्या वा योगदर्शनतोऽपिवा। आत्मनः सिद्धिरित्याहुः इति देहात्मसंग्रहः॥