249 संशयः

मूलम्

अथ सर्वार्थसिद्ध्युक्तः वैदिकात्मविनिर्णयः। विलिख्यते सुनिष्पन्नः विस्तरोऽन्यत्र दृश्यताम्॥

टीका

स. सि.[2-1]

मूलम्

मनुष्योऽदं कृशः स्थूलः इत्यादिस्सार्वलौकिकः। अभेदप्रत्ययोऽह्यस्ति नीलो घट इतीदृशः॥

मूलम्

मम देहोऽप्यहमिमं जानामीत्यादिभेदधीः। अपिह्यस्ति मम क्षेत्रमित्यादिप्रत्ययो यथा॥

मूलम्

लोके भेदेऽप्यभेदेन प्रत्ययो दृश्यते यथा। सेयं ज्वाला तथाचायो दहतीत्यादिलक्षणः॥

मूलम्

तथा भेदप्रत्ययोऽपि ह्यभेदेऽपित दृश्यते। चन्द्रद्वयं घटमठाकाश इत्यादिलक्षणः॥

मूलम्

बलाबलव्यवस्थायां कर्तव्यायां प्रसज्यते। सर्वत्राप्रमामाण्यशङ्का यथा चैषाऽवधार्यताम्॥

मूलम्

निर्वापितारोपितवत् ज्वालैक्यप्रत्ययस्थले। सादृश्यसादेश्यमुखदोषाणां संभवो यथा॥

मूलम्

अयःपिण्डस्थलेऽन्येन्यव्यतिहारधियामपि। हेतुर्विलक्षणो योगः यथा स्यात्प्रकृते तथा॥

मूलम्

सादेश्यसंसर्गमुखदोषसद्भावशङ्क्या। स्यादभेदप्रत्ययोऽप्रमाण्यशङ्काकलङ्कितः॥

मूलम्

तथा भेदप्रत्ययोऽपि शिलापुत्रस्य देहवत्। राहोश्शिरोवदैक्यस्याग्रहणाद्वा भवेदिति॥

मूलम्

तादृशाप्रामाण्यशङ्काकलङ्कान्न विमुच्यते। घटस्यात्मेत्यादिवत्तु ममात्मेत्यन्यथा भवेत्॥