मूलम्
युक्त्यन्तरं पुनरिदं वस्तुतस्त्वधार्यताम्॥
मूलम्
यथोपलब्धिर्भवति दीपादौ सति साधने। नैतावता दीपधर्मः सोपलब्धिर्भविष्यति॥
मूलम्
तथैव सति देहेऽस्मिन् साधने धीर्भविष्यति। न भविष्यत्यसति च न स्याद्देहगता ततः॥
मूलम्
देहेनापि नचात्यन्तमुपयोगोऽत्र दृश्यते। निश्चेष्टेऽपिच देहेऽस्मिन् दृश्यन्ते स्वाप्नसंविदः॥
मूलम्
तस्माद्देहातिरिक्तत्वमनवद्यं तथाऽस्तिता। इत्यात्मचिन्ता युक्तिस्था विज्ञेया बादरायणी॥
मूलम्
चैत्रस्तारक्षवीं स्वप्ने तनुमास्थाय बुध्यते। मीनुषीमात्मनः पश्यन् तनुं तदुभयानुगम्॥
मूलम्
आत्मानमनुसंधत्ते स्वयं देहविलक्षणम्। सर्वलोकप्रसिद्धोऽयं प्रत्ययोऽप्यवमृश्यताम्॥