247 चैतन्यविचारः

मूलम्

किंच भूतेभ्य उत्पत्तिमिच्छन् धीमन्निदर्शनः। किमात्मकं पुनरिदं चैतन्यं मन्यते भवान्॥

मूलम्

नहि भूतचतुष्केभ्यः किंचित्तत्त्वं विलक्षणम्। भवान् प्रत्येति येनैतज्जायेत मदशक्तिवत्॥

मूलम्

तच्चानुभवनं भूतभौतिकानां मतं यदि। विषयत्वात्तर्हि तेषां न तद्धर्मत्वमश्नुते॥

मूलम्

न ह्यग्निरुष्णः स्वात्मानं दहतीत्युपगम्यते। शिक्षितस्सन्न हि नटः स्वस्कन्धमधिरोक्ष्यति॥

मूलम्

अतः क्रिया विरुद्धैषा स्वात्मनीति श्रुतं बुधैः। रूपादिभिः स्वस्वरूपं विषयीक्रिये न हि॥

मूलम्

नह्येवं बूतधर्मेण सता चैतन्यवस्तुना। भूतभौतिकवस्तूनां विषयीकरणं भवेत्॥

मूलम्

भूतभौतिकवस्तूनि बाह्यान्याध्यात्मिकानि च। तच्चैतन्येन विषयीक्रियन्त इति सम्मतम्॥

मूलम्

अतो यथैवोपलब्धेः सद्भावोऽभ्युपगम्यते। व्यतिरेकोऽप्येमनस्याः विषयेऽभ्योऽभ्युपेयताम्॥

मूलम्

उपलब्धिस्वरूपोऽसावात्मेत्यस्माभिरिष्यते। तस्मात्तथाविधो ह्यात्मा सिद्धो देहविलक्षणः॥

मूलम्

उपलब्धेरैकरूप्यान्नित्यत्वमपिचात्मनः। अहं वास्त्विदमद्राक्षामिति प्रत्यभिसन्धितः॥

मूलम्

स्मृतीच्छाद्युपपत्तेष्च विज्ञानं क्षणिकं न सः।