मूलम्
यत्तु लोकायतः प्राह देहान्न व्यतिरिच्यते। आत्मेति तत्र प्रत्युक्तमाचार्यैर्बादरायणैः॥
मूलम्
एक आत्मन इत्यादिसूत्रेष्विति हि भाषितम्। श्रीरङ्करादिभिः यत्तत्सारांशोऽत्रावधार्यताम्॥
टीका
ब्र. सू. शं.[3-3-51]
मूलम्
यो मन्येतात्मधर्माणां देहभावे तु भावतः। शरीरधर्मतां सोऽसौ देहभावेऽप्यभावतः॥
मूलम्
अतद्धर्मत्वमेवैषां किं न मन्येत बुद्धिमान्। अपिचैते देहधर्मवैलक्षण्यान्न देहगाः॥
मूलम्
ये तु रूपादयो धर्माः यावद्देहं भवन्ति ते। प्राणचेष्टादयो न स्युः मृतावस्थे शरीरके॥
मूलम्
देहधर्मश्च रूपादिः पररैप्युपलभ्यते। नत्वात्मधर्मश्चैतन्यस्मृत्यादिरिति भाव्यताम्॥
मूलम्
किंच जीवचि देहेऽस्मिन्येषां भावोऽवगम्यते। असत्यभावो निश्चेतुं तेषां नैव हि शक्यते॥
मूलम्
कदाचित्पतितेऽप्यस्मिन् देहे देहान्तराश्रयात्। अनुवृत्तिर्भवेदात्मधर्माणामिति शङ्क्यते॥
मूलम्
न निवर्तयितुं शक्या सहसा विपरीतधीः। इति संशयमात्रेण परपक्षो निशिद्ध्यते॥