मूलम्
जयन्तन्यायमुञ्जर्यां गुरूणामात्मनिर्णयः। कृतः तस्यापि सारांशस्संक्षेपात्किंचिदुच्यते॥
मूलम्
गुरूणामपरोक्षोऽसावात्मा चापरसाधनः। चितिशक्तिस्वभावश्च तस्यैषा विवृत्तिर्यथा॥
मूलम्
आत्मा ज्ञानेन जन्येन न चकास्ति घटादिवत्। अपितु स्वत एवासौ संविद्वदवगम्यते॥
मूलम्
अनेककारकाधीनाऽप्येषा संवित्करोति तम्। आत्मानमेव ज्ञातारं चित्स्वभावोऽतएव सः॥
मूलम्
संवित्तयैव संविद्या यथा संवित्तथैव च। स्याद्ग्राहकतयैवात्मा ग्राह्यः ग्राह्यतया न तु॥
मूलम्
तयोः प्रकाशयोर्मध्ये परोक्षो ज्ञानलक्षणः। व्यापारो जायते तस्य फलं संवित्तिरिष्यते॥
मूलम्
द्वैरूप्यचोदना यैषा कर्तृता कर्मतेति च। नात्मन्यस्मिन् पक्ष इति दृश्यति न्यायमञ्जरी॥
मूलम्
अहंप्रत्ययकर्तृत्वेनैव सिद्धिरिहात्मनः। अहं प्रत्ययकर्मवेनैवेत्याहुः कुमारिलाः॥