मूलम्
प्रकाशरूप एवात्मा न स्वयं स्वस्य गोचरः। न परोक्षो न चाध्यक्षोऽपरोक्ष इति निर्णयः॥
मूलम्
अतश्च मोक्षे दृषदा तौल्यमापाद्यते परैः। संवित्तिफलभागिन्यप्यात्मनीष्टा न कर्मता॥
मूलम्
गन्तृवत्, परगामित्वं फलस्यास्ति विशेषणम् । आत्मा विषयसंवित्तेर्गौचरः सर्वदा ततः॥
मूलम्
संवित्त्युपायोपरमे सन्मात्रं स्वापवन्मतः। विशेषोऽभिमतः कैश्चिदात्मानां स्वापमोक्षयोः॥
मूलम्
संवित्तिवत्स्वस्सिद्धमात्मानमपरे विदुः। निरूपकत्वाश्रयत्वयुता विषयता हि सा॥
मूलम्
प्रकाशैकस्वरूपत्वात् स्वतो वा परतोऽपि वा। प्रकाशांशानपेक्षत्वं केचिदत्र प्रचक्षते॥
मूलम्
घटादयो ह्यप्रकाशस्वरूपाः तदपेक्षिणः। विषयव्यपदेश्यास्स्युः आत्मा सर्वविलक्षणः॥
मूलम्
प्रकाशतत्त्वनिष्कर्षः वासनैकनिबन्धनः। सौगतानां रीतीरन्या तार्किकाणां विलक्षणा॥
मूलम्
देहादिव्यतिरिक्तत्वयुक्तयः प्राक्प्रपञ्चिताः। न विशेषः विशेषांशस्त्वियानन्यत्र विस्तरः॥