मूलम्
आत्मतत्त्वं प्रकरणपञ्चिकायां निरूपितम्। श्रीमच्छालिकनाथेन तत्त्वालोकेऽस्य संग्रहः॥
टीका
प्रक.[8 प्र.]
मूलम्
बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः। नानाभूतः प्रतिक्षेत्रं अर्थवित्तिषु भासते॥
मूलम्
भोक्ता च भोगायतनं भोगसाधनमेव च। भोग्यं भुक्तिरिति ह्यत्र भोक्ता त्वात्मेति निश्चितः॥
मूलम्
शरीरं भोगायतनं इन्द्रियं भोगसाधनम्। भोग्यं सुखादिकं भुक्तिः वेदनेति च विश्रुता॥
मूलम्
आसु पञ्चविधास्वर्थतत्त्वं परिसमाप्यते। जरायुजं चाण्डभवं स्वेदजं च त्रिधा मतम्॥
मूलम्
उद्भिज्जं दैवमिति च द्विविधं तैर्न हीष्यते। श्मशाने जायते वृक्ष इत्यादिस्त्वर्थवादगीः॥