242 12

मूलम्

आवृत्तिभिर्यथाऽध्याये संस्कारो भवति क्रमात् । वाक्यावयवरूपेण तथाऽपूर्वं भविष्यति ॥

मूलम्

नैकरूपैव भावानामभिव्यक्तिः प्रतीयते । आत्मस्थोन्मीलनं तेन व्यक्तिरस्य भविष्यति ॥

टीका

तन्त्र.[375]

मूलम्

सर्वावाप्तिसमर्थो वा प्रकृत्याऽऽत्मा सदेष्यते । कश्चित्तु प्रतिबन्धोऽस्य कर्मभिस्सोऽपनीयते ॥

मूलम्

एवं विभुत्वं कर्तृत्वं भोक्तृत्वं तत्समर्थता । भाट्टसिद्धान्तानुरोधादात्मनामिह दर्शितम् ॥