241 सर्वसामर्थ्यम्

मूलम्

चलनादिक्रियाहीनोऽप्यसौ कर्तृत्वमात्रतः । देशान्तरप्रापणादिक्रियार्होऽतो न निष्क्रियः ॥

मूलम्

कर्तैव चाश्रयः तस्य़ कर्माप्यत्रैव च स्थितम् । अत एव स्थितं ह्येतत्कर्तृत्वं सर्वकर्मसु ॥

टीका

तन्त्र.[372]

मूलम्

यदि स्वसमवेतैव शक्तिरिष्येत कर्मणाम् । तद्विनाशे ततो न स्यात्कर्तृस्था तु न नश्यति ॥

मूलम्

कथमन्यत्रान्यशक्तिः समवैतीति चेत् शृणु । अत्यन्तभेदाभावो हि यागदानक्रियात्मनोः ॥

मूलम्

शक्तिः कार्यानुमेयत्वाद्यद्गतैवोपयुज्यते । तद्गतैवाभ्युपेतव्या स्वाश्रयाऽन्याश्रयाऽपि वा ॥

मूलम्

तादर्थ्येन हि शेषत्वं नाश्रयाश्रयिभावतः । राजार्थौपयिकं नित्यमुष्ट्रो वहति कुङ्कुमम् ॥

मूलम्

आत्माश्रिताङ्गपूर्णामेकार्थसमवायतः । प्रधानैस्सह संबन्धात् न तेषां पुरुषार्थता ॥

मूलम्

अर्थापत्तेरिहापूर्वं पूर्वमेकं प्रतीयते । ततस्तत्सिद्धये भूयस्स्यादपूर्वान्तरप्रमा ॥

मूलम्

प्रमाणवन्त्यदृष्टानि कल्प्यन्ते सुबहून्यपि । अदृष्टशतभागोऽपि न कल्प्यो ह्यप्रमाणकः ॥