मूलम्
ननु चैवं व्योमवत्स्यात् ऐकात्म्यमिति चेन्न तत् । सुखदुःखव्यवस्थातो नानेति प्रथितं हि तत् ॥
मूलम्
जन्ममृत्य्वाद्यनियमात् पुंसां च बहुतोदिता । सर्वे समानदेशास्स्युरस्पर्शा हि यतस्त्विमे ॥
मूलम्
चैतन्यमात्रात्मकत्माद्यविभागनिबन्धनः । ऐकात्म्यव्यवहारः स्यात् ततश्चोपनिषत्स्वपि ॥
टीका
तन्त्र.[381]
मूलम्
यथा शरीरमात्रेऽपि मातृगर्भात्मवर्तिनाम् । सुखादीनां व्यवस्थैवं सर्वत्रैषा भविष्यति ॥
मूलम्
देशव्याप्त्या यदीष्येत सुखादेरुपभोग्यता । ततो दोषः प्रसज्येत योग्यभोगे त्वदुष्टता ॥