239 ऐकात्म्यवादनिरासः

मूलम्

असर्वगतपक्षे स्यात् जीवो देहादनिर्गतः । अणुश्शरीरमात्रो वा सर्वथाऽपि न युज्यते ॥

मूलम्

यद्यणुः कल्प्यते तत्र देहं न व्याप्नुयादसौ । ततश्च सर्वगात्रस्थसुखप्राप्त्याद्यसंभवः ॥

मूलम्

लघुसंचारयोगेन संभवो निष्प्रमाणकः । बह्वदृष्टं कल्पनीयं यथा स्यादवधार्यताम् ॥

मूलम्

सद्भावोऽवयवानां च तथा तेषामनन्तता । अश्लेषश्च विनाऽन्येन तद्भावेऽपि च नित्यता ॥

मूलम्

अतिसंकोचविस्तारौ पुत्तिकाहस्तिदेहयोः । अन्तराभवसंचारः तज्ज्ञानाज्ञानकारणे ॥

मूलम्

यद्वियोजितमात्राणामङ्गानां स्फुरणं तु तत् । अभिघातप्रेरितेन वायुनेत्यवधार्यते ॥

मूलम्

दीपप्रभायास्संकोचविकासौ दर्शनान्मतौ । यद्वांशारम्भनाशाभ्यामुपपत्तिस्तयोर्भवेत् ॥

मूलम्

अङ्गुष्ठमात्र पुरुष इति श्रुतिस्मृती । सूक्ष्मग्रहणयोग्यत्वतत्परे इति बुध्यताम् ॥

मूलम्

अङ्गुष्ठमात्र पुरुषं निश्चकर्षेति यद्वचः । द्वैपायनीयं तदपि काव्यशोभानिबन्धनम् ॥

मूलम्

गीतादिषु हि तेनैव वर्णिताऽनेकरूपतः । सर्वत्र गतता तस्मात् आत्मनो विभवः स्थिताः ॥