238 असर्वगतपक्षदोषः

मूलम्

अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः । तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुतेष्यते ॥

मूलम्

सर्वत्र कार्योपलब्धेरात्मा सर्वगतो मतः । तच्च कार्यमहंबुद्धिः सुखदुःखादिधीरपि ॥

मूलम्

ननु लिङ्गं तदेव स्याद्देशान्तरगतेरपि । आत्मा शरीरसंमिश्रः तैरेव सह संगमात् ॥

मूलम्

तत्र तत्र सुखादीनि कार्याणि प्रतिपद्यते । युगपद्यदि सर्वत्र कार्यमात्मगतं भवेत् ॥

मूलम्

ततस्सर्वगतत्वं स्यात् पर्याये तु शरीरवत् । अन्यथा सर्वगतता शरीरस्यापि कथ्यताम् ॥

मूलम्

नैवं स्वतोऽस्यामूर्तत्वात् न मूर्तैर्मिश्रताऽऽत्मनः । ततश्च तैरसंश्लिष्टः न नेतुं शक्यते क्वचित् ॥

मूलम्

मूर्तानामपि सूक्ष्माणां चन्द्रदीपरवित्विषाम् । न मृत्पिण्डादिभिस्साकं मिश्रणं नयनं क्वचित् ॥

मूलम्

स्याद्वादिभिर्मता मूर्ता बद्धा जीवास्तथाऽपि ते । शरीरसंपर्कायत्तमूर्ततारहिताः पुनः ॥

मूलम्

ज्वालादीनां स्पर्शवत्त्वात् वायुना वोल्मुकादिना । युक्तं स्यान्नयनं वक्तुं तस्मात्सर्वगतः पुमान् ॥