237 विभुत्ववादः

मूलम्

कृतं भूतेन्द्रियाणां च चैतन्यप्रतिषेधनम् । समस्तव्यस्तसंघातविवेकपरिणामिनाम् ॥

टीका

तन्त्र.[376]

मूलम्

सांख्यादिभिरशुद्धत्वात् संघातात्सन्निवेशतः । मृतवच्च शरीरत्वात् भूतत्वाद्बाह्यभूतवत् ॥

मूलम्

स्मरणप्रत्यभिज्ञाने भवेतां वासनावशात् । अन्यार्थविषये ज्ञातुः प्रत्यभिज्ञा तु दुर्लभा ॥

मूलम्

अहं वेद्मीत्यहंबुद्धिः ज्ञातारमधिगच्छति । तत्र स्यात् ज्ञातृ विज्ञानं तदाधारोऽथवा पुमान् ॥

मूलम्

गुरुः स्थूलः कृशो वाऽहं इति देहेऽपि या मतिः । भ्रान्तिस्सा भेदरूपं हि गुरु मे तदितीक्ष्यते ॥

मूलम्

ममात्मेति मतिर्भेदव्यपदेशेन याऽऽत्मनः । तत्रावस्थाऽऽत्मना भेदं ज्ञानस्याश्रित्य कल्पना ॥

मूलम्

वेदादेवात्मनास्तित्वं यो नाम प्रतिपद्यते । विरोधं वाऽऽत्मनो ब्रूयात्तं प्रति ब्राह्मणाभिधा ॥

मूलम्

अन्यथाऽनुपपत्तेश्च विधिनाऽऽत्मन्यपेक्षिते । अस्तित्वद्योतनादेतैः अर्थाक्षिप्तसमर्थनम् ॥

मूलम्

इत्यात्मवादसारांशः श्लोकवार्तिकशोधितः । अथापूर्वाधिकरणतन्त्रवार्तिकसंग्रहः ॥