236 देहात्मवादनिरासः

मूलम्

ज्ञानशक्तिस्वभावोऽतो नित्यस्सर्वगतः पुमान् । देहान्तरक्षमः कल्प्यः सोऽगच्छन्नेव योक्ष्यते ॥

मूलम्

शक्याधारप्रक्लृप्तौ वा नात्मनोऽन्यः प्रकल्प्यते । ज्वालाबुद्बुदवद्वृत्तिः न चाधाराद्विना धियाम् ॥

मूलम्

तस्माद्यथाऽऽकृतौ शास्त्रं प्रवृत्तं व्यक्तिमाश्रयेत् । तथा पुंसि प्रवृत्तस्य भूतेन्द्रियसमाश्रयः ॥