235 जन्मान्तरानुपपत्तिः

मूलम्

देहान्तरे च संचारो बुद्धीनां नोपपद्यते । पूर्वदेहाद्बहिर्भावः नच तासां प्रतीयते ॥

मूलम्

वायुना प्रेर्यमाणं हि ज्वालाद्यन्यत्र संचरेत् । बुद्धेः कारणदेशात्तु प्रेरणं नास्ति केनचित् ॥

मूलम्

अमूर्तत्वात्स्वयं नासावुत्प्लुत्यान्यत्र गच्छति । अन्तराभवदेहस्तु निषिद्धो विन्ध्यवासिना ॥

मूलम्

सहसा जायते तच्च सहसैव विनश्यति । सूक्ष्मरूपादियुक्तं चेत् उत्प्रेक्षामात्रमेव तत् ॥

मूलम्

कललादिषु विज्ञानमस्तीत्येतच्च साहसम् । असंजातेन्द्रियत्वाद्धि न तत्रार्थोऽवगम्यते ॥

मूलम्

यदि भूतेन्दरियाधारा ज्ञानशक्तिः भवेत्ततः । तच्चैतन्यं प्रसज्येत नच जन्मान्तरं भवेत् ॥

मूलम्

परिणामविवेकाद्यैः शक्त्यभिव्यक्त्यनुग्रहात् । तेभ्य एव भवेद्बुद्धिः न बुद्ध्यन्तरपूर्विका ॥

मूलम्

अथाधारविनिर्मुक्ता शक्तिस्स्यात्कललादिषु । पश्चाद्विज्ञानसिद्ध्यर्थं आत्मा शक्त्यभिधो भवेत् ॥