234 नैरात्म्यवाददोषः

मूलम्

नैरात्म्यवादपक्षे तु पूर्वमेवावबुद्ध्यते । मद्विनाशात्फलं न स्यान्मत्तोऽन्यस्याथवा भवेत् ॥

मूलम्

इति नैव प्रवृत्तिः स्यात् न च वेदप्रमाणता । जन्मान्तरेऽभ्युपेतेऽपि ज्ञानमात्रात्मवादिनाम् ॥

मूलम्

ज्ञानानां क्षणिकत्वाद्धि कर्तृभोक्त्रन्यता भवेत् । निष्क्रियत्वाविभुत्वाभ्यां नच देहान्तराश्रितिः ॥

मूलम्

कर्ता स एव सन्तानः ननु भोक्ता स एव नः । विज्ञानक्षणभेदस्तु त्वदवस्थान्तरैस्समः ॥

मूलम्

कर्तृत्वमेव दुस्साधं दीर्घकालेषु कर्मसु । सत्सु ज्ञानसहस्रेषु कुलकल्पोपमं हि तत् ॥

मूलम्

व्यतिरिक्तो हि संतानो यदि नाभ्युपगम्यते । संतानिनामनित्यत्वात् कर्ता कश्चिन्न लभ्यते ॥

मूलम्

तस्मादत्यन्तभेदो वा कथंचिद्भिन्नताऽपि वा । संतानस्येत्ययं चात्मा स्याद्वैशेषिकसांख्ययोः ॥

मूलम्

नन्वन्यत्वं विदन्तोऽपि पुत्रादिफलसिद्धये । प्रवर्तन्ते यथा तद्वत् ज्ञानसंतानिनोऽपि नः ॥

मूलम्

अन्यत्वे च समानेऽपि यथा वंशान्तरोद्भवाः । न लभन्ते फलं तद्वत् संतानान्तरजाः क्षणाः ॥

मूलम्

न तावद्बुद्धिरत्रैवं, अपिचातमफलेच्छया । पुत्रादिभरणे वृत्तिः स्यात्तदप्यत्र नास्ति ते ॥

मूलम्

भरणं यदपत्यानां तिर्यगादिषु दृश्यते । अज्ञानं शरणं तत्र प्राज्ञानां तु न युज्यते ॥

मूलम्

नच त्वमपि कृत्येषु निरन्वयविनाशतः । मत्सन्तानसमृद्ध्यर्थमिति मत्वा प्रवर्तसे ॥