मूलम्
तत्र नित्यविभुत्वाभ्यामात्मानो निष्क्रिया यदि । सुखदुःखाविकार्याश्च कीदृशी कर्तृभोक्तृता ॥
मूलम्
अथ कर्तृत्ववेलायां दुःखादेश्चापि जन्मनि । प्राग्रूपादन्यथात्वं स्यात् नित्यताऽस्य विरुद्ध्यते ॥
मूलम्
नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते । विक्रियामात्रवाचित्वे, न ह्युच्छेदोऽस्य तावता ॥
मूलम्
स्यातामत्यन्तनाशेऽस्य कृतनाशाकृतागमौ । न त्ववस्थान्तरप्राप्तौ लोके बालयुवादिवत् ॥
मूलम्
सुखदुःखाद्यवस्थाश्च गच्छन्नपि नरो मम । चैतन्यद्रव्यसत्तादिरूपं नैव विमुञ्चति ॥
मूलम्
दुःखिनः सुख्यवस्थायां नश्येयुस्सर्व एव ते । दुःखित्वं चानुवर्तेत विनाशे विक्रियात्मके ॥
मूलम्
तस्मादुभयहानेन व्यावृत्यनुगमात्मकः । पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥