232 समाधानम्

मूलम्

नैष दोषः न भोगे हि स्मृतिर्न उपयुज्यते । न प्रवृत्तिर्निवृत्तिर्वा भोगकाले स्मृतेर्भवेत् ॥

मूलम्

प्राक्प्रवृत्तेस्तु साऽस्त्येव विदुषां शास्त्रतः स्फुटा । पश्चादपि च शास्त्रज्ञाः विमृशन्त्येव केचन ॥

मूलम्

अपरामृश्यमानेऽपि स्वापकाले सुखाश्रये । संभोगे मृदुशय्यादौ प्राक्प्रवृत्तिश्च दृश्यते ॥