231 विज्ञानवादाद्याक्षेपः

मूलम्

अथ वार्तिककारीयस्यात्मवादस्य संग्रहम् । सारांशविषयं धीरा विमृशन्तु विशुद्धये ॥

मूलम्

शरीरेन्द्रियबुद्धिभ्यो व्यतिरिक्तत्वमात्मनः । नित्यत्वं चेष्यते शेषं शरीरादि विनश्यति ॥

मूलम्

नित्यः कर्तृत्वभोक्तृत्वे प्रतिपन्नोऽपि सन् यदा । न कर्मफलसंबन्धं भोगकालेऽवबुद्ध्यते ॥

मूलम्

मया तत्तु कृतं कर्म तस्येदं भुज्यते फलम् । शुभाशुभं मयैवेति तदा कोऽस्य रसो भवेत् ॥

मूलम्

कुर्वन्नप्यशुभं कर्म तेनैवं चिन्तयेन्नरः । न स्मरिष्यामि भोगेऽहमिति नैतद्विवर्जयेत् ॥

मूलम्

तत्र नित्यत्वपक्षेऽपि कृतनाशाकृतागमौ । फलतस्तुल्यरूपौ चेत् वृथा तत्प्रतिपादनम् ॥