मूलम्
अथ यद्विज्ञानघन इति ब्राह्मणकीर्तनम्। भूतचैतन्यवादस्य तत्र प्रतिविधीयते॥
मूलम्
अत्रैव मां हि भगवान् मोहस्यान्तमपीपदम्। इत्यस्य चोत्तरं मोहमरे न प्रब्रवीम्यहम्॥
मूलम्
अविनाशी वाऽयमात्मा तथाऽनुच्छित्तिधर्मकः। मात्रासंसर्गमात्रं तु भवत्यस्येति च श्रुतम्॥
मूलम्
सदसन्नाश्यमाशात्मपरिकीर्तनमूढया। चोदितः पूर्वपक्षोऽयमिति सिद्धान्तमब्रवीत्॥
मूलम्
अविनाशी स्वरूपेण पुरुषः या तु नाशिता। मात्राणां साधिकाराणां भूतादीनामसौ मता॥
मूलम्
तस्मान्न विज्ञानमात्रं आत्माऽन्योऽस्ति सुखादितः। अहंप्रत्ययगम्यश्च नित्यः व्यापी स्वयंप्रभः॥
मूलम्
इति शाबरभाष्यस्थमात्मतत्त्वं विचिन्तितम्। इतोऽप्यधिकयुक्त्यंशे वार्तिकं त्ववधार्यताम्॥