मूलम्
यदुच्यते च विज्ञानमपास्यैतन्निदर्श्यताम्। इति तच्चेदुपायस्य निषेधो न स युज्यते॥
मूलम्
विनोपायमुपेयं तूपेतुं नैव हि शक्यते। ज्ञातव्यानामाथार्थानामभ्युपायोऽयमेव हि॥
मूलम्
यो यथा ज्ञायते सोऽसौ तथेत्यपिच तद्यथा। कश्शुक्लो नाम यत्रास्ति शुक्लत्वं शुक्लता च का॥
मूलम्
शुक्लशब्दप्रवृत्तिस्स्याद्यत्र सा शुक्लता ह्यसौ। क्व वा तस्य प्रवृत्तिस्स्यात् यस्तच्छब्दात्प्रतीयते॥
मूलम्
तत्प्रत्याख्याय विज्ञानं रूपं कस्याप वस्तुनः। न निदर्शयितुं शक्यं ज्ञानात्सर्वं हि सिद्ध्यति॥
मूलम्
प्रत्ययेऽथ प्रतीतेऽपि प्रत्ययार्थो नियोगतः। नच प्रतीतो भवति तस्मात् ज्ञानविलक्षणः॥
मूलम्
प्रत्यये ह्यप्रतीतेऽपि प्रत्ययारथः प्रतीयते। प्रत्यक्षं तन्न विज्ञानं ज्ञेयोऽध्यक्ष इतीर्यते॥
मूलम्
अथचापह्नवेऽवश्यवक्तव्ये ज्ञानमेव तु। अपह्नूयेतैव कामं नार्थ इत्यप्युदीरितम्॥