मूलम्
किंचोपदिश्यते चोपमानादात्मा यथापुनः। भवान् यादृशमात्मानं स्वयं पश्यति तादृशम्॥
मूलम्
पश्याम्यहमपीत्येवमुपमानेन गम्यते। यथाच कश्चिदात्मीयां वेदानां संप्रचक्षते॥
मूलम्
दह्यमानस्येव मे स्यात् यात्यमानस्य वा पुनः। रुद्ध्यमानस्येव मेऽद्य भवतीति विकल्प्यते॥
मूलम्
अतः स्वेनैवावगम्यमानत्वादस्ति पूरुषः। अतिरिक्तो वेदनाभ्यः तस्मादात्मा स्वयंप्रभः॥