227 उपायोपदेशः

मूलम्

उपायेन पुनः केन वाऽन्यस्मै कथ्यते त्वसौ। इत्यत्रोपायोपदेशे ब्राह्मणं पठितं यथा॥

मूलम्

स एष नेति नेत्यात्मेति होवाचेति,तस्य तु। अयमर्थः-इदंरूप इत्यादेष्टुं न शक्यते॥

मूलम्

परः पश्यति यद्रूपं तद्रूपं प्रतिषिध्यते। तस्योपदेशोपायोऽयं तत्प्रकारोऽवधार्यताम्॥

मूलम्

शरीरं दृश्यतेऽन्येन तेनात्माऽत्रोपदिश्यते। नात्मा शरीरं अन्योऽस्ति शरीरादिति युक्तितः॥

मूलम्

शरीरप्रतिषेधेन शारीर उपदिश्यते। प्राणादिप्रतिषेधेन तेभ्योऽप्यन्योऽवगम्यते॥

मूलम्

तथा परगताः दुःखसुखाद्या अपि लिङ्गतः। परेण ह्युपलभ्यन्ते तेऽपि नात्मन इत्यपि॥

मूलम्

तेषां तु प्रतिषेधेन तदन्योऽत्रोपदिश्यते। स एष नेतिनेत्यादेः अर्थ एषोऽवधारितः॥

मूलम्

किंच स्वयं पश्यति यं न ततोऽन्यः पुमानिह। इत्येतदपि चात्मीयप्रवृत्त्यैवानुमीयते॥

मूलम्

किंचासौ पुरुषः पूर्वमर्थानां सामिकल्पितम्। ततः प्रतिसमाधत्ते शेषांशं चानुतिष्ठति॥

मूलम्

एवं प्रवृत्त्याऽप्येषोऽर्थो ज्ञायते सूक्ष्मदर्शिभिः। नूनं नित्यमनित्यानप्यवगच्छत्यसाविति॥