226 प्रकारान्तरम्

मूलम्

अत्राह यदि विज्ञानादन्यद्विज्ञातृ विद्यते। अपास्य तत्तु विज्ञानं तद्विज्ञातृ निदर्श्यताम्॥

मूलम्

इदं तदीदृशं चेति न त्वयैतन्निदर्श्यते। तस्मात्ततोऽन्यदस्तीति कथं स्यादवधारणा॥

मूलम्

अत्रोच्यते स्वसंवेद्यः नासामान्येन शक्यते। द्रष्टुं कथमसावन्यैः निदर्श्येतेति चिन्तय॥

मूलम्

यथाच कश्चिच्चक्षुक्ष्मान् स्वयं रूपं प्रपश्यति। नच शक्नोति जात्यन्धायान्यस्मै तन्निदर्शने॥

मूलम्

एतावता तन्नास्तीति न केनाप्यवगम्यते। तथोपलभते चासावात्मानं पुरुषः स्वयम्॥

मूलम्

नचान्यस्मै दर्शयितुं शक्नोतीन्दरियवर्त्मतः। अन्यस्य दर्शने शक्तिः नास्ति तं पुरुषं प्रति॥

मूलम्

एवमन्योऽपि पुरुषः स्वात्मानमवगच्छति। नचात्मानं परं तस्मात्सर्व एवाच्मसाक्षिणः॥

मूलम्

अत्रच ब्रह्मणं ह्यात्मज्योतिस्सम्राडितीक्ष्यते। अत्र स्वयं ज्योतिरयं पुरुषो भवतीत्यपि॥

मूलम्

अन्येनाशक्य इत्यत्राप्यगृह्यो नहि गृह्यते। इति श्रुतं अभिप्रायोऽप्ययमेवास्य संगतः॥