225 आक्षेपसमाधानम्

मूलम्

नन्वन्यत्राप्यहंशब्दप्रयोगो दृश्यते यथा। पुत्रोऽहमेवाहमेव देवदत्तोऽहमेव च॥

मूलम्

पुमान् नीलः कृशः स्थूलः गच्छामीत्येवमादयः। अत्रोच्यते नहि वयं प्रयोगविषयं ध्वनिम्॥

मूलम्

अर्थऽन्यस्मिन् हेतुतया निर्दिशामः परंत्वमुम्। तस्माच्छब्दात्प्रत्यभिज्ञाप्रत्यक्षं प्राङ्निरूपितम्॥

मूलम्

व्यतिरिक्तं प्रतीमोऽतश्चायमर्थः प्रसिद्ध्यति। वयमेवान्येद्युरिममर्थं ह्युपलभामहे॥

मूलम्

वयमेव स्मरामोऽद्य ततो जानीमहे पुनः। यथाच वयमेव ह्यः वयमेवाद्यचेत्यपि॥

मूलम्

ये ह्योऽद्य च न ते नष्टाः अत्रार्थे ब्राह्मणं पुनः। स वा अयमसावात्मा ह्यशीर्यो नहि शीर्यते॥

मूलम्

अविनाशी वाऽयमरे आत्मानुच्छित्तिधर्मकः। इति क्षणिकविज्ञानादन्य आत्मेति निर्णयः॥

मूलम्

अर्था यथोरलभ्यन्ते न तथा सन्ति किंपुनः। यथा तु नोपलभ्यन्ते तथा सन्तीति नोचितम्॥

मूलम्

तथासति शशो नास्ति विषाणं तस्य विद्यते। इत्येवमवगम्येत तस्माल्लोकोत्तरं त्विदम्॥

मूलम्

नचाहंप्रत्ययो मोहः बाधकानुपलम्भनात्। तस्माद्यज्ञायुधीत्युक्तस्सुखेच्छादिविक्षणः॥