मूलम्
हेतुष्वेवं परोक्तेषु प्रतिषिद्धेषु संप्रति॥
मूलम्
अहंप्रत्ययविज्ञेयः स्वयमात्मोपपद्यते। तथाहि प्रतिसंधानमनयेद्युरवलोकिते॥
मूलम्
अपरेद्युर्ह्यहमिदमदर्शमिति दृश्यते। प्रत्यगात्मैकविषयं न परत्र प्रसर्पति॥
मूलम्
यतोऽन्येद्युर्दृष्टवतोऽपरेद्युः स्याद्विलक्षमः। तस्मात्तद्व्यतिरिक्तोऽस्ति यत्राहंशब्द ईर्यते॥
मूलम्
स्मरणप्रत्यभिज्ञाने स्यातामान्यार्थगोचरे। वासनावशतः ज्ञातुः प्रत्यभिज्ञा तु दुर्लभा॥