223 स्मरणेनानुमानम्

मूलम्

अत्रोच्यते नास्मर्तार इच्छन्तीत्युपपद्यते। नादृष्टपूर्वे स्मरणं कस्यापि हि भविष्यति॥

मूलम्

विज्ञानस्कन्धमात्रेण स्मृतिर्नैवोपपद्यते। समानायां संततावप्यैक्यं व्यक्तिषु दुर्लभम्॥

मूलम्

ननु स्मृतिरपीच्छावत्पूर्मविज्ञानसन्निभम्। विज्ञानं तच्च नष्टेऽपि द्रष्टर्यन्येद्युरुद्भवेत्॥

मूलम्

नैवचानुपपन्नं तत् प्रत्यक्षावगतत्वतः। किंचैकस्मिन् स्कन्धघनेऽन्येन स्कन्धघनेन यत्॥

मूलम्

विज्ञातं तत्संततिजेनान्येनाप्युपलभ्यते। नातत्संततिजेनान्येनेति प्रत्यक्षनिश्चितम्॥

मूलम्

तस्माच्छून्याः स्कन्धघनाः इत्यर्थे ब्राह्मणं पुनः। विज्ञानघन एवैभ्यो भूतेभ्यश्च समुत्थितः॥

मूलम्

तान्येवानुविनश्येन्न प्रेत्य संज्ञेति पठ्यते।