222 तन्निरासः

मूलम्

अत्राह नोपपन्नेच्छेत्येष संप्रत्ययः क्व नः । विज्ञानात्तावदन्यं तं न चैवोपलभामहे ॥

मूलम्

नास्मिन्नसति विज्ञानसद्भावो नोपपद्यते । प्रत्यक्षसिद्धत्वादेव तत एव क्षणात्मता ॥

मूलम्

नच ज्ञातरि विज्ञानादन्यस्मिन् असति क्वचित्। नोपपन्नाऽन्येद्युरिच्छा ज्ञाने च क्षमिकात्मनि॥

मूलम्

प्रत्यक्षसिद्धत्वादेव दृष्टं नैतदपि क्वचित्। अन्येद्युरुपलब्धा यस्स एवैषिष्यतीत्यपि॥

मूलम्

इदं तु दृष्टमस्माभिः क्वचिदन्यविलोकितम्। इच्छत्यन्यः क्वचिन्नेति सन्तत्यैक्यं नियामकम्॥