मूलम्
इति चेदिच्छयैवोपलभामह इतीर्यते॥
मूलम्
पूर्वोपलब्धेऽभिप्रेते हीच्छा भवति कस्यचित्। नान्येन पुरुषेणोपलब्धेऽपि विषये क्वचित्॥
मूलम्
अन्येद्युरुपलब्धेऽर्थेऽप्यन्येद्युर्भवति ह्यसौ। समानकर्तृका सोपलम्भेनेत्यवगम्यते॥
मूलम्
यदि विज्ञानमात्रं तदुपलम्भकमिष्यते। तस्मिन्नस्तमिते कस्यान्येद्युरिच्छा भविष्यति॥
मूलम्
विज्ञाता यदि विज्ञानात् नित्यः कश्चिदुपेयते। स एवचोपलब्धा स्यात्स भवेदेषिताऽपि च ॥